|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.17. अध्यायः 017
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-17-0x(5110)(61076)
शल्येऽथ निहते राजन्मद्रराजपदानुगाः।
रथाः सप्तशता वीरा दुद्रुवुर्महतो बलात्॥ 9-17-1(61077)
दुर्योधनस्तु द्विरदमारुह्याचलसन्निभम्।
छत्रेण ध्रियमाणेन वीज्यमानश्च चामरैः।
न गन्तव्यं न गन्तव्यमिति मद्रानवारयत्॥ 9-17-2(61078)
दुर्योधनेन ते वीरा वार्यमाणाः पुनः पुनः।
युधिष्ठिरं जिघांसन्तः पाण्डूनां प्राविशन्बलम्॥ 9-17-3(61079)
ते तु शूरा महाराज कृतचित्ताश्च योधने।
धनुःशब्दं महत्कृत्वा सहायुध्यन्त पाण्डवैः॥ 9-17-4(61080)
श्रुत्वा च निहतं शल्यं धर्मपुत्रं च पीडितम्।
मद्रराजप्रिये युक्तैर्मद्रकाणां महारथैः॥ 9-17-5(61081)
आजगाम ततः पार्थो गाण्डीवं विक्षिपन्धनुः।
पूरयन्रथघोषेण दिशः सर्वा महारथः॥ 9-17-6(61082)
ततोऽर्जुनश्च भीमश्च माद्रीपुत्रौ च पाण्डवौ।
सात्यकिश्च नरव्याघ्रो द्रौपदेयाश्च सर्वशः॥ 9-17-7(61083)
धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सोमकैः।
युधिष्ठिरं परीप्सन्तः समन्तात्पर्यवारयन्॥ 9-17-8(61084)
ते समन्तात्परिवृताः पाण्डवैः पुरुषर्षभैः।
क्षोभयन्ति स्म तां सेनां मकराः सागरं यथा।
वृक्षानिव महावाताः कम्पयन्ति स्म तावकाः॥ 9-17-9(61085)
पुरोवातेन गङ्गेव--क्षोभ्यमाणा महानदी।
अक्षोभ्यत तदा राजन्पाण्डूनां ध्वजिनी ततः॥ 9-17-10(61086)
प्रस्कन्द्य सेनां महतीं महात्मानो महारथाः।
बहवश्चुक्रुशुस्तत्र क्व स राजा युधिष्ठिरः।
भ्रातरो वाऽस्य ते शूरा दृश्यन्ते नेह केचन॥ 9-17-11(61087)
धृष्टद्युम्नोऽथ शैनेयो द्रौपदेयाश्च सर्वशः।
पाञ्चालाश्च महावीर्याः शिखण्डी च महारथः॥ 9-17-12(61088)
एवं तान्वादिनः शूरान्द्रौपदेया महारथाः।
अभ्यघ्नन्युयुधानश्च मद्रराजपदानुगान्॥ 9-17-13(61089)
चक्रैर्विमथितैः केचित्केचिच्छिन्नैर्महाध्वजैः।
सम्प्रदृश्यन्त समरे तावका निहताः परैः॥ 9-17-14(61090)
आलोक्य पाण्डवान्युद्धे योधा राजन्समन्ततः।
वार्यमाणा ययुर्वेगात्पुत्रेण तव भारत॥ 9-17-15(61091)
दुर्योधनश्च तान्वीरान्वारयामास सान्त्वयन्।
न चास्य शासनं केचित्तत्र चक्रुर्महारथाः॥ 9-17-16(61092)
ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्।
दुर्योधनं महाराज वचनं वचनक्षमम्॥ 9-17-17(61093)
किं नः सम्प्रेक्षमाणानां मद्राणां हन्यते बलम्।
न युक्तमेतत्समरे त्वयि तिष्ठति भारत॥ 9-17-18(61094)
सहितैर्नाम योद्धव्यमित्येष समयः कृतः।
अथ कस्मात्स्मरन्नेव घ्नतो मर्षयसे नृप॥ 9-17-19(61095)
दुर्योधन उवाच। 9-17-20x(5111)
वार्यमाणा मया पूर्वं नैते चक्रुर्वचो मम।
एते विनिहताः सर्वे प्रस्कन्नाः पाण्डुवाहिनीम्॥ 9-17-20(61096)
शकुनिरुवाच। 9-17-21x(5112)
न भर्तुः शासनं वीरा रणे कुर्वन्त्यमर्षिताः।
अलं क्रोद्वुमथैतेषां नायं काल उपेक्षितुम्॥ 9-17-21(61097)
यामः सर्वेऽत्र सम्भूय सवाजिरथकुञ्जराः।
परित्रातुं महेष्वासान्मद्रराजपदानुगान्॥ 9-17-22(61098)
अन्योन्यं परिरक्षामो यत्नेन महता नृप।
एवं सर्वेऽनुसञ्चिन्त्य प्रययुर्यत्र सैनिकाः॥ 9-17-23(61099)
सञ्जय उवाच। 9-17-24x(5113)
एवमुक्तस्तदा राजा बलेन महता वृतः।
प्रययौ सिंहनादेन कम्पयन्निव मेदिनीम्॥ 9-17-24(61100)
हत विध्यत गृह्णीत प्रहरध्वं निकृन्तत।
इत्यासीत्तुमुलः शब्दस्तव सैन्यस्य भारत॥ 9-17-25(61101)
पाण्डवास्तु रणे दृष्ट्वा मद्रराजपदानुगान्।
सहितानभ्यवर्तन्तं गुल्ममास्थाय मध्यमम्॥ 9-17-26(61102)
ते मुहूर्ताद्रणे वीरा हस्ताहस्ति विशाम्पते।
निहताः प्रत्यदृश्यन्त मद्रराजपदानुगाः॥ 9-17-27(61103)
ततो नः सम्प्रयातानां हता मद्रास्तरस्विनः।
हृष्टाः किलकिलाशब्दमकुर्वन्सहिताः परे॥ 9-17-28(61104)
अथोत्थितानि रुण्डानि समदृश्यन्त सर्वशः।
पपात महती चोल्का मध्येनादित्यमण्डलम्॥ 9-17-29(61105)
रथैर्भग्नयुगाक्षैश्च निहतैश्च महारथैः।
अश्वैर्निपातितैश्चैव सञ्छन्नाऽभूद्वसुन्धरा॥ 9-17-30(61106)
वातायमानैस्तुरगैर्युगासक्तैस्ततस्ततः।
अकृष्यन्त महाराज योधास्तत्र रणाजिरे॥ 9-17-31(61107)
भग्नचक्रान्रथान्केचिदहरंस्तुरगा रणे।
रथार्धं केचिदादाय दिशो दश विबभ्रमुः।
तत्रतत्र व्यदृश्यन्त योक्त्रैः श्लिष्टाः स्म वाजिनः॥ 9-17-32(61108)
रथिनः पतमानाश्च दृश्यन्ते स्म नरोत्तमाः।
गगनात्प्रच्युताः सिद्धाः पुण्यानामिव सङ्क्षये॥ 9-17-33(61109)
निहतेषु च शूरेषु मद्रराजानुगेषु वै।
अस्मानापततश्चापि दृष्ट्वा पार्था महारथाः॥ 9-17-34(61110)
अभ्यवर्तन्त वेगेन जयगृद्धाः प्रहारिणः।
बाणशब्दरवान्कृत्वा विमिश्राञ्शङ्खनिःस्वनैः॥ 9-17-35(61111)
अस्मांस्तु पुनरासाद्य लब्धलक्षाः प्रहारिणः।
शरासनानि धुन्वानाः सिंहनादान्प्रचुक्रुशुः॥ 9-17-36(61112)
ततो हतमभिप्रेक्ष्य मद्रराजबलं महत्।
मद्रराजं च समरे दृष्ट्वा शूरं निपातितम्।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम्॥ 9-17-37(61113)
वध्यमानं महाराज पाण्डवैर्जितकाशिभिः।
दिशो भेजेऽथ सम्भ्रान्तं त्रासितं दृढधन्विभिः॥ ॥ 9-17-38(61114)
इति श्रीमन्महाभारते शल्यवपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे सप्तदशोऽध्यायः॥ 17 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-17-20 प्रस्कन्नाः प्रपन्नाः॥ 9-17-17 सप्तदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|